॥ परत्वादिपञ्चकम् ॥

॥ परत्वादिपञ्चकम् ॥

परवासुदेवस्तुति :
उद्यद् भानुसहस्त्र भास्वर परव्योमास्पदं निर्मलं
ज्ञानानंद घन स्वरूपममल ज्ञानादिभिः षड्गुणैः।
जुष्टं सूरिजनाधिपं धृतरथांगाब्जादि भूषोज्ज्वलं,
श्रीभूसेव्यमन्तभोगिनिलयं श्रीवासुदेवं भजे ।।
व्युहवासुदेवस्तुतिः
आमोदे भुवने प्रमोद उत सम्मोदे च संकर्षणं
प्रद्युम्नं च तथानिरुद्धमपि तान् संहारसृष्टिस्थितिः।
कुर्वाणान्मतिमुख्यषड्गुणवरैः युक्तांस्त्रियुग्मात्मकैः
व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे।। २
विभवस्तुति:
वेदान्वेषण मंदराद्रिभरण क्ष्मोद्धारण प्रश्रित
प्रह्लादावन भूमिभिक्षण जगद्विक्रांतयो यत्क्रियाः।
दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं, कर्षणं
कालिन्द्या, अतिपाप कंसनिधनं यत्क्रीडितं तन्नुमः।। ३
अंतर्यामिस्तुतिः
यो देवादिचतुर्विधेषु जनिषु ब्रह्मांडकोशांतरे
संभक्तेषु चराचरेषु च विशन् आस्ते सदांतर्बहिः ।
विष्णुस्तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं
स्वांगुष्ठप्रमितं च योगिहृदयेष्वासीन मीशं भजे।। ४
अर्चास्तुतिः
श्रीरंगस्थल वेंकटाद्रि करिगिर्यादौ शतेऽष्टोत्तरे
स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे।
अर्चारूपिण मर्चकाभिमतित स्स्वीकुर्वते विग्रहं
पूजां चाखिलवांछितान् वितरते श्रीशाय तस्मै नमः।। ५
फलश्रुतिः
प्रातर्विष्णोः परत्वादिपञ्चकस्तुतिमुत्तमाम् ।
पठन् प्राप्नोति भगवद्भक्तिं वरद निर्मिताम्।।

Leave a Reply

Your email address will not be published. Required fields are marked *