॥ श्रीमद्वरवरमुन्यष्टोत्तरशतनामावलिः॥
ॐ श्रीशैलेशदयापात्राय नमः।
ॐ धीभक्त्यादिगुणार्णवाय नमः
ॐ यतीन्द्रप्रवणाय नमः
ॐ वन्द्याय नमः
ॐ रम्यजामातृयोगिराजे नम:
ॐ यतीन्द्रापरपर्यायाय नम:
ॐ पर्यायभुजगेश्वराय नम:
ॐ वाचस्पतये नमः
ॐ विशदवाक्चूडामणये नम:
ॐ अप्रमेयधिये नम: ॥ १० ॥
ॐ श्रीमत्परमहंसार्याय नमः
ॐ तत्त्वज्ञानविवर्धनाय नम:
ॐ यथाभूतार्थकथनाय नमः
ॐ यथादृष्टार्थबोधनाय नम:
ॐ यथार्थसूक्तिनिवहाय नम:
ॐ यथार्थानुग्रहोदयाय नमः
ॐ त्रिदण्डमण्डनाय नम:
ॐ सौम्यशिखावते नमः
ॐ शोभनाकृतये नमः
ॐ सर्वसौहार्दनिलयाय नम: ॥ २० ॥
ॐ सुमुखाय नमः
ॐ सौख्यदायकाय नमः
ॐ जयप्रदमहासूक्तये नमः
ॐ जयशीलाय नमः
ॐ जगद्गुरवे नमः
ॐ तेजोनिधानवदनाय नमः
ॐ तेजिष्ठाय नमः
ॐ तीर्थपावनाय नमः
ॐ क्षेत्रयात्रापवित्रात्मने नमः
ॐ क्षेत्रक्षेत्रमविवर्धनाय नम: ॥ ३० ॥
ॐ सिद्धशासननिष्ठात्मने नमः
ॐ सिद्धसर्वार्थसंचयाय नमः
ॐ सिद्धिदाय नमः
ॐ शुद्धहृदयाय नमः
ॐ विशुद्धवपुषे नमः
ॐ उज्ज्वलाय नमः
ॐ अमन्दानन्दसंदोहसन्दायकवचोमृताय नमः
ॐ अमृतप्रायवाग्गुम्भविवशीकृतरङ्गराजे नमः
ॐ जगद्गुरुगुणस्तोमविशदीकरणप्रभवे नमः
ॐ गुणैकदर्शिने नमः ॥ ४० ॥
ॐ गुढार्थव्याख्यात्रे नमः
ॐ वाक्यतत्त्वविदे नमः
ॐ विद्वद्वरेण्यसंस्तुत्यविमलोदयभाषणाय नमः
ॐ जात्याश्रयनिमित्तादिदुष्टान्नपरिहारकाय नमः
ॐ सर्वश्रमापहायुक्तये नमः
ॐ समदर्शिने नमः
ॐ सतां निधये नमः
ॐ रजस्तमोविदूरात्मने नमः
ॐ शुद्धसात्विकविग्रहाय नम:
ॐ पद्मपाणये नमः ॥ ५० ॥
ॐ पद्मवक्त्त्राय नमः
ॐ पवित्रधिये नमः
ॐ दुर्गुणध्वान्तसंहर्त्रे नम:
ॐ सद्गुणस्तोमशेवधये नमः
ॐ श्रीपादतीर्थसंदानसमुज्जीवितचेतनाय नमः
ॐ चैतन्यस्तन्यसंदानसंवर्धितमहीतलाय नम:
ॐ कृत्स्नभूमण्डलव्यापिदिव्यकीर्तिसमुज्ज्वलाय नमः
ॐ स्वपादरेखारूपश्रीतोताद्रिमुनिसंस्तुताय नमः
ॐ अविज्ञातवृथाजल्पाय नमः
ॐ सुविज्ञातार्थपञ्चकाय नमः ॥ ६० ॥
ॐ अविज्ञातनरस्तोत्राय नमः
ॐ सुविज्ञातगुरुस्तुतये नमः
ॐ गरिष्ठगोष्ठयधिष्ठात्रे नमः
ॐ गरीयसे नमः
ॐ गाढभक्तिदाय नमः
ॐ रङ्गनाथमुखोदञ्चन्मङ्गलश्लोकसंस्तुताय नमः
ॐ वादिभीतिकराचार्यसदाचार्याय नमः
ॐ सदाश्रयाय नमः
ॐ त्रैगुण्यसंगरहिताय नम: ॥ ७० ॥
ॐ त्रय्यन्तपरिपोषकाय नम:
ॐ भगवद्गुणविद्धात्मने नमः
ॐ भक्तिभूषाय नमः
ॐ अभिरामवाचे नमः
ॐ स्वरूपानुगुणोपायनिष्कर्षिणे नमः
ॐ निस्समानधिये नमः
ॐ निस्समाभ्यधिकाय नमः
ॐ नेत्रे नमः
ॐ निष्कृष्टज्ञानसागराय नमः
ॐ उत्कृष्टजन्मनिष्कर्षिणे नम: ॥ ८० ॥
ॐ निष्कर्षध्याननिष्टधिये नमः
ॐ शीतलोदारहृदयाय नमः
ॐ हार्दभक्त्यमृतार्णवाय नम:
ॐ अर्णवादपिगम्भीराय नमः
ॐ दम्भसूयादविष्ठहृदे नमः
ॐ शास्त्रतात्पर्यनिर्णेत्रे नम:
ॐ शास्त्रविश्वासवर्धनाय नम:
ॐ सर्वसंपत्परित्यागिने नमः
ॐ पारमैकान्त्यभूषणाय नमः
ॐ सुदृढाध्यवसायाढयाय नमः ॥ ९० ॥
ॐ सुप्रतिष्ठितदर्शनाय नमः
ॐ गुणानुभवकैंकर्यनैयत्यनियताग्रण्ये नमः
ॐ आचार्यप्रेमसम्पत्तिसमुज्ज्वलितमानसाय नमः
ॐ आभ्यन्तरदृढप्रेम्णे नमः
ॐ बाह्याडम्बरवर्जिताय नमः
ॐ सर्वप्रमाणसग्राहिणे नमः
ॐ सर्वभूतसुहृत्तमाय नमः
ॐ सर्वपापफलध्वंसिने नमः
ॐ सर्वपुण्यफलप्रदाय नमः
ॐ सर्वदेशदशाकालसमिन्धानयशसे नमः ॥ १०० ॥
ॐ सर्वदेवालस्तोमसमुद्घोषितवैभवाय नमः
ॐ सत्सम्प्रदायसिद्धान्तसम्बर्धनविचक्षणाय नमः
ॐ सर्वदेवालयाराध्यदिव्यमङ्गलविग्रहाय नमः
ॐ सर्वशास्त्रार्थवैशद्यसमुत्पादकसूक्तिदाय नमः
ॐ सर्वसूरिगणांशात्मने नमः
ॐ सर्वविज्ञानसागराय नमः
ॐ सर्वाचार्यसमुत्तुङ्गाय नमः
ॐ सर्वरक्षकरक्षकाय नमः १०८
॥ इति श्रीमद्वरवरमुन्यष्टोत्तरशतनामावलिः॥