॥ श्रीरङ्गनाथस्तोत्रम् ॥
श्रीपराशर भट्टार्यः श्रीरङ्गेशपुरोहितः।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे॥
सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने
कावेरीमध्यदेशे मृदुतरफणिराहोगपर्यङ्कभागे ।
निद्रामुद्राभिरामं कटिनिकटशिरःपार्श्वविन्यस्तहस्तं
पद्माधात्रीकराभ्यां परिचितचरणं रङ्गराजं भजेऽहम् ॥१ ॥
कस्तूरीकलितोर्ध्वपुण्ड्रतिलकं कर्णान्तलोलेक्षणं
मुग्धस्मेरमनोहराधरदळं मुक्ताकिरीटोज्ज्वलम्।
पश्यन्मानसपश्यतोहररुचः पर्यायपङ्केरुहं
श्रीरङ्गाधिपतेः कदा नु वदनं सेवेय भूयोऽप्यहम् ॥ २ ॥
कदाऽहं कावेरीतटपरिसरे रङ्गनगरे
शयानं भोगीन्द्रे शतमखमणिश्यामलरुचिम्।
उपासीनः क्रोशन् मधुमथन ! नारायण ! हरे!
मुरारे! गोविन्देत्यनिशमनुनेष्यामि दिवसान् ॥ ३ ॥
कदाऽहं कावेरीविमलसलिले वीतकलुषो
भवेयं तत्तीरे श्रममुषि वसेयं घनवने।
कदा वा तत् पुण्ये महति पुळिने मङ्गळगुणं
भजेयं रङ्गेशं कमलनयनं शेषशयनम् ॥४ ॥
पूगीकण्ठद्वयससरसस्निग्धनीरोपकण्ठां
आविर्मोदस्तिमितशकुनानूदितब्रह्मघोषाम्।
मार्गेमार्गे पथिकनिवहैरुञ्छ्यमानापवर्गा
पश्येयं तां पुनरपि पुरीं श्रीमती रङ्गधाम्नः ॥ ५ ॥
न जातु पीतामृतमूर्च्छितानां
नाकौकसां नन्दनवाटिकासु।
रङ्गेश्वर त्वत्पुरमाश्रितानां
रथ्याशुनामन्यतमो भवेयम् ॥ ६ ॥
श्रीरङ्गं करिशैलमञ्जनगिरिं तार्थ्याद्रिसिंहाचलौ
श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिशम्।
श्रीमवारवतीप्रयागमथुरायोध्यागयाः पुष्करं ।
सालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥७ ॥
असन्निकृष्टस्य निकृष्टजन्तोः
मिथ्यापवादेन करोषि शान्तिम्।
ततो निकृष्टे मयि सन्निकृष्टे
कां निष्कृति रङ्गपते करोषि ॥ ९ ॥
॥ श्रीरङ्गनाथस्तोत्रम् ॥