॥ श्रीवेदव्यासभट्टार्यपुत्ररत्नैः श्रीवेदाचार्यभट्टरनुगृहीतम्॥
॥ श्रीलक्ष्मीनरसिंहमंगलाशासनम् ॥
श्रीपरांकुशयोगींद्र शठारि प्रमुखान् गुरून्।
मंगळाशासनपरान् महिताननिशं भजे ॥ १ ॥
जगज्जन्मादिलीलाय जगदानंदहेतवे।
जगच्चक्षुर्निवासाय श्रीनृसिंहाय मंगळम् ॥ २ ॥
हिरण्य स्तम्भसम्भूति प्रख्यातपरमात्मने।
प्रह्लादार्तिमुषे ज्वालानारसिंहाय मंगळम् ॥ ३ ॥
॥ श्रीलक्ष्मीनरसिंहमंगलाशासनम् ॥