॥ श्रीसुदर्शनमङ्गलाशासनम् ॥
मङ्गलं चक्रराजाय महनीयगुणाब्धये।
पद्मनाभकराम्भोजपरिष्काराय मङ्गलम्॥१॥
काशीविप्लोषकाराय कल्याणगुणशालिने।
बालिप्रमथनायाऽस्तु महाधीराय मङ्गलम्॥२॥
गजेन्द्रार्तिहरायास्तु ग्राहद्वेधात्वकारिणे।
दिनाधीशतिरोधानकर्त्रे दीप्ताय मङ्गलम्॥३॥
चित्राकारस्वचाराय चित्तनिर्वृत्तिकारिणे।
नरकासुरसंहर्त्रे नानारूपाय मङ्गलम्॥४॥
चण्डास्त्रांश्चित-दोर्दण्ड-खण्डितामरशत्रवे।
चामीकरनिभाङ्गाय चारुनेत्राय मङ्गलम्॥५॥
चैद्यासुरशिरोहर्त्रे चन्द्राह्लादकराय च।
श्रीमते चक्रराजाय श्रितार्तिघ्नाय मङ्गलम्॥६॥
॥ इति चक्रराजकर्पूरार्तिक्यम् ॥