॥ श्रीहरिस्तोत्रम् ॥
जगज्जालपालं कचत्कंठभालं
शरच्चंद्रभालं महादैत्यकालम् ।
नभोनीलकायं दुरावारमायं
सुपद्मासहायं भजेऽहं भजेऽहम् ॥ १ ॥
सदांभोधिवासं गलत्पुष्पहासं
जगत्संनिवासं शतादित्यभासम् ।
गदा चक्रशस्त्रं लसत्पीतवस्त्रं
हसच्चारुवक्त्रं भजे० ॥ २ ॥
रमाकंठहारं श्रुतिव्रातसारं
जलांतर्विहारं धराभारहारम् ।
चिदानंदरूपं मनोज्ञस्वरूपं
धृतानेकरूपं भजे० ॥ ३ ॥
जराजन्महीनं परानंदपीनं
समाधानलीनं सदैवंनवीनम् ।
जगज्जन्महेतुं सुरानीककेतुं
त्रिलोकैक सेतुं भजे ० ॥ ४ ॥
कृताम्नायगानं खगाधीशयानं
विमुक्तेर्निदानं हरारातिमानम् ।
स्वभक्तानुकुलं जगद्वृक्षमूलं
निरस्तार्तशूलं भजे० ॥ ५ ॥
समस्तामरेशं द्विरेफाभकेशं
जगद्विंबलेशं ह्रदाकाशदेशम् ।
सदादिव्य देहं विमुक्ताखिलेहं
सुवैकुण्ठगेहं भजे० ॥ ६ ॥
सुरालीबलिष्ठं त्रिलोकीवरिष्ठं
गुरूणां गरिष्ठं स्वरूपैकनिष्ठम् ।
सदा युद्धधीरं महावीरवीरं
भवांभोधितीरं भजे० ॥ ७ ॥
रमावामभागं तलीनग्ननागं
कृताधीनयागं गतारागरागम् ।
मुनींद्रै: सुगीतं सुरै: संपरीतं
गुणौघैरतीतं भजे० ॥ ८ ॥
इदं यस्तु नित्यं समाधायचित्तं
पठेदष्टकं कष्टहारं मुरारे: ।
स विष्णोर्विशोकं ध्रुवं याति लोकं
जराजन्मशोकं पुनर्विदते नो ॥ ९ ॥
॥ इति श्रीहरिस्तोत्रम् ॥