॥ श्लोकद्वयम् ॥
(गजेन्द्रमोक्षम्)
ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारूह्य धावन्
व्याघूर्णन् माल्यभूषावसन परिकरो मेघ गम्भीरघोषः।
अबिभ्राणो रथाङ्गं शरमसिमभयं शंखचापौ सखेटौ।
हस्तैः कौमदकीमप्यवतु हरिरसावंहसां संहतेर्नः ।। १ ।।
नक्राक्रांते करीन्द्रे मुकुळितनयने मूलमूलेति खिन्ने
नाहं नाहं नचाहं न च भवति पुनस्तादृशो मादृशेषु।
इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते
मूलं यत् प्रादुरासीत् स दिशतु भगवान् मंगळं संततं नः।। २ ।।